(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.37. अध्यायः 037
Mahabharata - Drona Parva - Chapter Topics
अभिमन्युपराक्रमवर्णनम्॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-37-0x(4349)(46348)
तां प्रभाग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा।
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात्॥ 7-37-1(46349)
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे।
दृष्ट्वा द्रोणोऽब्रवीद्योधान्परीप्सध्वं नराधिपम्॥ 7-37-2(46350)
पुराऽभिमन्युर्लक्षं नः पश्यतां हन्ति वीर्यवान्।
तमाद्रवत माभैष्ट क्षिप्रं रक्षत कौरवम्। 7-37-3(46351)
सञ्जय उवाच। 7-37-4x(4350)
`एवमुक्तास्ततस्तेन भारद्वाजेन धीमता'।
कृतज्ञानबलोत्सेधाः सुहृदो जितकाशिनः।
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम्॥ 7-37-4(46352)
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः।
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः॥ 7-37-5(46353)
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान्।
सौभद्रं शरवर्षेण महता समवाकिरन्॥ 7-37-6(46354)
सम्मोहयित्वा तमथ दुर्योधनममोचयन्।
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः॥ 7-37-7(46355)
ताञ्शरौघेण महता साश्वसूतान्महारथान्।
विमुखीकृत्य सौभद्रः सिंहनादमथानदत्॥ 7-37-8(46356)
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः।
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः॥ 7-37-9(46357)
त एनं कोष्ठकीकृत्य रथवंशेन मारिष।
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः॥ 7-37-10(46358)
तान्यन्तरिक्षे चिच्छेद पौत्रस्ते निशितैः शरैः।
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत्॥ 7-37-11(46359)
`ततो रथपदात्योघाः कुञ्जराः सादिनश्च ह'।
कोपितास्तेन शूरेण शरैराशीविषोपमैः।
परिवब्रुर्जिघांसन्तः सौभद्रमपराजितम्॥ 7-37-12(46360)
समुद्रमिव पर्यस्तं त्वदीयं तं बलार्णवम्।
दधारैकोऽर्जुनिर्बाणैर्वेलेवोद्वृत्तमर्णवम्॥ 7-37-13(46361)
शूराणां युध्यमानानां निघ्नतामितरेतरम्।
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः॥ 7-37-14(46362)
तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे।
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत॥ 7-37-15(46363)
दुःशानो द्वादशभिः कृपः शारद्वतस्त्रिभिः।
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः॥ 7-37-16(46364)
विविंशतिस्तु सप्तत्या कृतवर्मा च सप्तभिः।
बृहद्बलस्तथाऽष्टाभिरश्वत्थामा च सप्तभिः॥ 7-37-17(46365)
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षङ्भिराशुगैः।
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः॥ 7-37-18(46366)
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः। 7-37-19(46367)
नृत्यन्निव महाराज चापहस्तः प्रतापवान्॥ 7-37-19(46368)
ततोऽभिमन्युः सङ्क्रुद्धस्त्रास्यमानस्तवात्मजैः।
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम्॥ 7-37-20(46369)
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः।
अभ्यद्रवत तं कार्ष्णिमश्मकेन्द्रः कृतत्वरः॥ 7-37-21(46370)
अश्वाश्चाश्मकमादाय त्वरमाणाऽभ्यहारयन्।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत्॥ 7-37-22(46371)
तस्याभिमन्युर्दशभिर्हयान्सूतं ध्वजं शरैः।
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत्॥ 7-37-23(46372)
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे।
सञ्चचाल बलं सर्वं पलायनपरायणम्॥ 7-37-24(46373)
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट् शलः।
शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः।
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः॥ 7-37-25(46374)
बृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः।
दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन्॥ 7-37-26(46375)
सोऽतिविद्धो महेष्वासैरभिमन्युरजिह्मगैः।
शरमादत्त कर्णाय वर्मकायावभेदिनम्॥ 7-37-27(46376)
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः।
प्राविशद्धरणीं वेगाद्वल्मी कमिव पन्नगः॥ 7-37-28(46377)
स तेनातिप्रहारेण व्यथितो विह्वलन्निव।
सञ्चचाल रणे कर्णः क्षितिकम्पे यथाऽचलः॥ 7-37-29(46378)
तथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम्।
कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली॥ 7-37-30(46379)
कर्णस्तं पञ्चविंशत्या नाराचानां समार्पयत्।
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः॥ 7-37-31(46380)
स शराचितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः।
विचरन्ददृशे सैन्ये पाशहस्त इवान्तकः॥ 7-37-32(46381)
शल्यं च शरवर्षेण समीपस्थामवाकिरत्।
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन्॥ 7-37-33(46382)
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः।
शल्यो राजन्रथोपस्थे निषसाद मुमोह च॥ 7-37-34(46383)
तं हि दृष्ट्वा तथा विद्धं सौभद्रेण यशास्विना।
सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः॥ 7-37-35(46384)
सम्प्रेक्ष्य तं महाबाहुं रुक्मपुङ्खैः समावृतम्।
त्वदीयाः प्रपलायन्ते मृगाः सिंहार्दिता इव॥ 7-37-36(46385)
`सौभद्रशरनिर्भग्नाः समरेऽमरविक्रमाः।
एवं शल्यो विमृदितस्तव पौत्रेण भारत'॥ 7-37-37(46386)
स तु रणयशसाऽभिपूज्यमानः
पितृसुरचारणसिद्धयक्षसङ्गैः
अवनितलगतैश्च भूतसङ्घै--
रतिविबभौ हुतभुग्यथाऽऽज्यसिक्तः॥ ॥ 7-37-38(46387)

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे सप्तत्रिंशोऽध्यायः॥ 37 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-37- त्रास्यमानाः पालयिष्यन्तः॥ 5-37- पर्यस्तं उत्क्रान्तमर्यादम्॥ 5-37- शिक्षौरसकृतं अभ्यासकृतं निसर्गभवं च॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.